अरुण उवाच ।
नमस्ते गणनाथाय तेजसां पतये नमः ।
अनामयाय देवेश आत्मने ते नमो नमः ॥ १ ॥
ब्रह्मणां पतये तुभ्यं जीवानां पतये नमः ।
आखुवाहनगायैव सप्ताश्वाय नमो नमः ॥ २ ॥
स्वानन्दवासिने तुभ्यं सौरलोकनिवासिने ।
चतुर्भुजधरायैव सहस्रकिरणाय च ॥ ३ ॥
सिद्धिबुद्धिपते तुभ्यं सञ्ज्ञानाथाय ते नमः ।
विघ्नहन्त्रे तमोहन्त्रे हेरम्बाय नमो नमः ॥ ४ ॥
अनन्तविभवायैव नामरूपप्रधारिणे ।
मायाचालक सर्वेश सर्वपूज्याय ते नमः ॥ ५ ॥
ग्रहराजाय दीप्तीनां दीप्तिदाय यशस्विने ।
गणेशाय परेशाय विघ्नेशाय नमो नमः ॥ ६ ॥
विवस्वते भानवे ते रवये ज्योतिषां पते ।
लम्बोदरैकदन्ताय महोत्कटाय ते नमः ॥ ७ ॥
यः सूर्यो विकटः सोऽपि न भेदो दृश्यते कदा ।
भक्तिं देहि गजास्य त्वं त्वदीयां मे नमो नमः ॥ ८ ॥
किं स्तौमि त्वां गणाधीश योगाकारस्वरूपिणम् ।
चतुर्धा भज्य स्वात्मानं खेलसि त्वं न संशयः ॥ ९ ॥
एवं स्वस्य स्तुतिं श्रुत्वा विकटो रूपमादधे ।
वामाङ्गे सञ्ज्ञया युक्तं गजवक्त्रादिचिह्नितम् ॥ १० ॥
तं दृष्ट्वा प्रणनामाथानूरुर्हर्षसमन्वितः ।
तं जगाद गणाधीशो वरं वृणु हृदीप्सितम् ॥ ११ ॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् ।
भविष्यति न सन्देहश्चिन्तितं स लभेत् परम् ॥ १२ ॥
शृणुयाद्वा जपेद्वाऽपि तस्य किञ्चिन्न दुर्लभम् ।
भविष्यति महापक्षिन् मम सन्तोषकारकम् ॥ १३ ॥
इति श्रीमन्मुद्गले महापुराणे षष्ठे खण्डे अरुण कृत श्री भानुविनायक स्तोत्रम् ॥